|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.189. अध्यायः 189
Mahabharata - Udyoga Parva - Chapter Topics
पुंवेषगूहितया शिखण्डिन्या द्रोणाद्धनुर्विद्याभ्यसनम् ॥ 1 ॥
द्रुपदेन शिखण्डिन्याः दशार्णाधिपतिकन्यया विवाहकरणम् ॥ 2 ॥
दाशार्णकसुतया धात्रीद्वारा स्वपित्रे शिखण्डिन्याः स्त्रीत्वज्ञापनम् ॥ 3 ॥
दाशार्णकेन दूतमुखेन द्रुपदंप्रति स्वविप्रलम्भफलतया सबन्धोस्तस्य समुच्छेदनिवेदनम् ॥ 4 ॥
Mahabharata - Udyoga Parva - Chapter Text
भीष्म उवाच। 5-189-0x(3926)(38369)
चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु।
ततो लेख्यादिषु तथा शिल्पेषु च परंतप ॥ 5-189-1(38370)
इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह।
तस्य माता महाराज राजानं वरवर्णिनी ॥ 5-189-2(38371)
चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा ।
ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम् ।
स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया ॥ 5-189-3(38372)
द्रुपद उवाच। 5-189-4x(3927)
कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी ।
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः ॥ 5-189-4(38373)
भार्योवाच। 5-189-5x(3928)
न तन्मिथ्या महाराज भविष्यति कथंचन ।
त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति ॥ 5-189-5(38374)
यदि ते रोचते राजन्वक्ष्यामि श्रृणु मे वचः।
श्रुत्वेदानीं प्रपद्येथाः स्वां मतिं पृषतात्मज ॥ 5-189-6(38375)
क्रियतामस्य यत्नेन विधिवद्दारसंग्रहः ।
भविता तद्वचः सत्यमिति मे निश्चिता मतिः ॥ 5-189-7(38376)
ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दंपती ।
वरयाञ्चक्रतुः कन्यां दशार्णाधिपतेः सुताम् ॥ 5-189-8(38377)
ततो राजा द्रुपदो राजसिंहः
सर्वान्राज्ञः कुलतः सन्निशाम्य।
दाशार्णकस्य नृपतेस्तनूजां
शिखण्डिने वरयामास दारान् ॥ 5-189-9(38378)
हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः।
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ॥ 5-189-10(38379)
स च राजा दशार्णेषु महानासीत्सुदुर्जयः।
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः ॥ 5-189-11(38380)
कृते विवाहे तु तदा सा कन्या राजसत्तम।
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ॥ 5-189-12(38381)
कृतदारः शिखण्डी च काम्पिल्यं पुनरागमत्।
न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल।
यदा त्वेनामजानात्सा स्त्रियमेव नृपात्मजा ॥ 5-189-13(38382)
धात्रीणां च सखीनां च व्रीडयाना न्यवेदयत् ।
कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम् ॥ 5-189-14(38383)
ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा।
जग्मुरार्ति परां प्रेष्याः प्रेषयामासुरेव च ॥ 5-189-15(38384)
ततो दशार्णाधिपतेः प्रेष्याः सर्वा न्यवेदयन् ।
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ॥ 5-189-16(38385)
शिखण्ड्यपि महाराज पुंवद्राजकुले तदा।
विजहार म्रुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ॥ 5-189-17(38386)
ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ ।
हिरण्यवर्मा राजेन्द्र रोषादर्तिं जगाम ह ॥ 5-189-18(38387)
ततो दाशार्णको राजा तीव्रकोपसमन्वितः ।
दूतं प्रस्थापयामास द्रुपदस्य निवेशनम् ॥ 5-189-19(38388)
ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः।
एक एकान्तसुत्सार्य रहो वचनमब्रवीत् ॥ 5-189-20(38389)
दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् ।
अभिष्गात्प्रकुपितो विप्रलब्धस्त्वयाऽनघ ॥ 5-189-21(38390)
अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव।
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि ॥ 5-189-22(38391)
तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते ।
एष त्वं सजनामात्यमुद्धरामि स्थिरो भव ॥ 5-189-23(38392)
अवमत्य च वीर्यं मे कुलं चारित्रमेव च ।
विप्रलम्भस्त्वयापूर्वो मनुष्येषु प्रवर्तितः ॥ 5-189-24(38393)
कुरु सर्वाणि कार्याणि भुङ्क्ष्व कभोगाननुत्तमान्।
अभियास्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवम् ॥ ॥ 5-189-25(38394)
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-189-4 शूलयुक्तः पाणिः शूलपाणिः सोऽस्यास्तीति शूलपाणी तस्य ॥ 5-189-20 उत्सार्य नीत्वा ॥ 5-189-21 अभिषङ्गात्पराभवात् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|